वांछित मन्त्र चुनें
आर्चिक को चुनें

मू꣣र्धा꣡नं꣢ दि꣣वो꣡ अ꣢र꣣तिं꣡ पृ꣢थि꣣व्या꣡ वै꣢श्वान꣣र꣢मृ꣣त꣢꣯ आ जा꣣त꣢म꣣ग्नि꣢म् । क꣣वि꣢ꣳ स꣣म्रा꣢ज꣣म꣡ति꣢थिं꣣ ज꣡ना꣢नामा꣣स꣢न्नः꣣ पा꣡त्रं꣢ जनयन्त दे꣣वाः꣢ ॥११४०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम् । कविꣳ सम्राजमतिथिं जनानामासन्नः पात्रं जनयन्त देवाः ॥११४०॥

मन्त्र उच्चारण
पद पाठ

मू꣣र्धा꣡न꣢म् । दि꣣वः꣢ । अ꣣रति꣢म् । पृ꣣थिव्याः꣢ । वै꣣श्वानर꣢म् । वै꣣श्व । नर꣢म् । ऋ꣣ते꣢ । आ । जा꣣त꣢म् । अ꣣ग्नि꣢म् । क꣣वि꣢म् । सम्रा꣡ज꣢म् । स꣣म् । रा꣡ज꣢꣯म् । अ꣡ति꣢꣯थिम् । ज꣡ना꣢꣯नाम् । आ꣣स꣢न् । नः꣣ । पा꣡त्र꣢꣯म् । ज꣣नयन्त । देवाः ॥११४०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1140 | (कौथोम) 4 » 2 » 3 » 1 | (रानायाणीय) 8 » 3 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा पूर्वार्चिक में ६७ क्रमाङ्क पर परमात्मा के साक्षात्कार के विषय में व्याख्यात हो चुकी है। यहाँ भी वही विषय है।

पदार्थान्वयभाषाः -

(मूर्धानम्) मूर्धा के समान सर्वोपरि विराजमान (दिवः) सूर्य के और (पृथिव्याः) पृथिवी के (अरतिम्) स्वामी, (वैश्वानरम्) सबके नेता, (ऋते) यज्ञ में (आ जातम्) सर्वत्र प्रसिद्ध, (कविम्) वेदकाव्य के कवि, (सम्राजम्) ब्रह्माण्ड के राजराजेश्वर, (जनानाम्) मनुष्यों के (अतिथिम्)अतिथि के समान पूज्य, (नः) हमारे (पात्रम्) पालनकर्ता (अग्निम्) अग्रनायक परमेश्वर को (देवाः) विद्वान् उपासक जन (आसन्) मुख से प्रणव-जप आदि करके (जनयन्त) अन्तरात्मा में प्रकट करते हैं ॥१॥

भावार्थभाषाः -

सबके वन्दनीय, सब शुभ गुण-कर्म-स्वभावों से युक्त, विश्व के सम्राट् परमात्मा को जानकर, उसकी स्तुति और उपासना करके मनुष्यों को अपनी और दूसरों की उन्नति सिद्ध करनी चाहिए ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ६७ क्रमाङ्के परमात्मसाक्षात्कारविषये व्याख्याता। अत्र पुनरपि तमेव विषयमाह।

पदार्थान्वयभाषाः -

(मूर्धानम्) मूर्धवत् सर्वोपरि विराजमानम्, (दिवः) सूर्यस्य(पृथिव्याः) धरित्र्याश्च (अरतिम्) स्वामिनम्। [ऋच्छति गच्छति स्वामित्वेन यः तम्। ऋ गतौ धातोः औणादिकः अतिप्रत्ययः।] (वैश्वानरम्) विश्वेषां नेतारम्, (ऋते) यज्ञे (आ जातम्) सर्वत्र प्रसिद्धम्, (कविम्) वेदकाव्यस्य कर्तारम्, (सम्राजम्) ब्रह्माण्डस्य राजराजेश्वरम्, (जनानाम्) मनुष्याणाम् (अतिथिम्) अतिथिवत् पूज्यम्, (नः) अस्माकम् (पात्रम्) पातारम् (अग्निम्) अग्रनेतारं परमेश्वरम् (देवाः) विद्वांसः उपासका जनाः (आसन्) आस्ना मुखेन प्रणवजपविधिना (जनयन्त) जनयन्ति, अन्तरात्मनि प्रकटयन्ति। [आसन् आस्ना, तृतीयैकवचने ‘सुपां सुलुक्०’ अ० ७।१।३९ इत्यनेन विभक्तेर्लुक्] ॥१॥२

भावार्थभाषाः -

विश्ववन्द्यं निखिलशुभगुणकर्मस्वभावं विश्वस्य सम्राजं परमात्मानं विदित्वा स्तुत्वा समुपास्य च मनुष्यैरात्मनः परेषां चोन्नतिः साधनीया ॥१॥

टिप्पणी: १. ऋ० ६।७।१, य० ७।२४, ३३।८, सर्वत्र ‘मा॒सन्ना’ इति पाठः। साम० ६७। २. दयानन्दर्षिणा ऋग्यजुर्भाष्ययोर्मन्त्र एष परमात्मपक्षे विद्वत्पक्षे भौतिकाग्निपक्षे विद्युत्पक्षे च व्याख्यातः।